Laghu Saptshati Durga Stotra // लघु सप्तशती दुर्गा स्तोत्र // Durga // दुर्गा // Laghu Durga Stotra
Rajendra Kumar Vyas Palji Rajendra Kumar Vyas Palji
163K subscribers
6,224 views
164

 Published On Nov 15, 2023

वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604

श्री मार्कण्डेयकृत लघुसप्तशती दुर्गा स्तोत्रं
ॐ वीं वीं वीं वेणुहस्ते स्तुतिविधवटुके
हां तथा तानमाता
स्वानन्देनन्दरूपे अविहतनिरुते
भक्तिदे मुक्तिदे त्वम् ।
हंसः सोऽहं विशाले वलयगतिहसे
सिद्धिदे वाममार्गे
ह्रीं ह्रीं ह्रीं सिद्धलोके कष कष विपुले
वीरभद्रे नमस्ते ॥ १ ॥
ॐ ह्रींकारं चोच्चरन्ती ममहरतु भयं
चर्ममुण्डे प्रचन्डे
खां खां खां खड्गपाणे ध्रकध्रकध्रकिते
उग्ररूपे स्वरूपे ।
हुं हुं हुंकारनादे गगनभुवि तथा
व्यापिनी व्योमरूपे
हं हं हंकारनादे सुरगणनमिते
राक्षसानां निहंत्री ॥ २ ॥
ऐं लोके कीर्तयन्ति मम हरतु भयं
चण्डरुपे नमस्ते
घ्रां घ्रां घ्रां घोररूपे घ घ घ घ घटिते
घर्घरे घोररावे ।
निर्मांसे काकजङ्घे घसितनखनखा
धूम्रनेत्रे त्रिनेत्रे
हस्ताब्जे शुलमुण्डे कलकुलकुकुले
श्रीमहेशी नमस्ते ॥ ३ ॥
क्रीं क्रीं क्रीं ऐं कुमारी कुहकुहमखिले
कोकिले मानुरागे
मुद्रासंज्ञत्रिरेखां कुरु कुरु सततं
श्रीमहामारी गुह्ये ।
तेजोंगे सिद्धिनाथे मनुपवनचले
नैव आज्ञा निधाने
ऐंकारे रात्रिमध्ये शयितपशुजने
तंत्रकांते नमस्ते ॥ ४ ॥
ॐ व्रां व्रीं व्रुं व्रूं कवित्ये दहनपुरगते
रुक्मरूपेण चक्रे
त्रिः शक्त्या युक्तवर्णादिककरनमिते
दादिवंपूर्णवर्णे ।
ह्रीं स्थाने कामराजे ज्वल ज्वल ज्वलिते
कोशितैस्तास्तुपत्रे
स्वच्छदं कष्टनाशे सुरवरवपुषे
गुह्यमुंडे नमस्ते ॥ ५ ॥
ॐ घ्रां घ्रीं घ्रूं घोरतुण्डे घघघघघघघे
घर्घरान्यांघ्रिघोषे
ह्रीं क्री द्रं द्रौं च चक्र र र र र रमिते
सर्वबोधप्रधाने ।
द्रीं तीर्थे द्रीं तज्येष्ठ जुगजुगजजुगे
म्लेच्छदे कालमुण्डे
सर्वाङ्गे रक्तघोरामथनकरवरे
वज्रदण्डे नमस्ते ॥ ६ ॥
ॐ क्रां क्रीं क्रूं वामभित्ते गगनगडगड़े
गुह्ययोन्याहिमुण्डे
वज्राङ्गे वज्रहस्ते सुरपतिवरदे
मत्तमातङ्गरूढे ।
सुतेजे शुद्धदेहे ल ल ल ल ललिते
छेदिते पाशजाले
कुण्डल्याकाररूपे वृषवृषभहरे
ऐन्द्रि मातर्नमस्ते ॥ ७ ॥
ॐ हुं हुं हुंकारनादे कषकषवसिनी
माँसि वैतालहस्ते
सुंसिद्धर्षैः सुसिद्धिर्ढढढढढढढ़ः
सर्वभक्षी प्रचन्डी ।
जूं सः सौं शांतिकर्मे मृतमृतनिगडे
निःसमे सीसमुद्रे
देवि त्वं साधकानां भवभयहरणे
भद्रकाली नमस्ते ॥ ८ ॥
ॐ देवि त्वं तुर्यहस्ते करधृतपरिघे
त्वं वराहस्वरूपे
त्वं चेंद्री त्वं कुबेरी त्वमसि च जननी
त्वं पुराणी महेन्द्री ।
ऐं ह्रीं ह्रीं कारभूते अतलतलतले
भूतले स्वर्गमार्गे
पाताले शैलभृङ्गे हरिहरभुवने
सिद्धिचंडी नमस्ते ॥ ९ ॥
हँसि त्वं शौंडदुःखं शमितभवभये
सर्वविघ्नान्तकार्ये
गां गीं गूं गैं षडंगे गगनगटितटे
सिद्धिदे सिद्धिसाध्ये ।
क्रूं क्रूं मुद्रागजांशो गसपवनगते
त्र्यक्षरे वै कराले
ॐ हीं हूं गां गणेशी गजमुखजननी
त्वं गणेशी नमस्ते ॥ १० ॥
॥ श्री मार्कण्डेयकृत
लघुसप्तशती दुर्गा स्तोत्रं सम्पूर्णं ॥

show more

Share/Embed