Published On Premiered Oct 8, 2024
|| श्री महालक्ष्म्यष्टकम् ||
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते |
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ||१||
नमस्ते गरुङारूढे कोलासुरभयंकरि |
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ||२||
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि |
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ||३||
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि |
मंत्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ||४||
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि |
योगज्ञे योगसंभूते महालक्ष्मि नमोऽस्तु ते ||५||
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे |
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ||६||
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि |
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ||७||
श्वेतांबरधरे देवि नानालंकारभूषिते |
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ||८||
महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः |
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ||
एककाले पठेन्नित्यं महापापविनाशनम् |
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ||
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् |
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ||
|| इति महालक्ष्म्यष्टकं संपूर्णम् ||
#youtube #subscribe #youtuber #youtubers #youtubevideos
#mahalakshmi #mahalaxmiashtak #stotram #stotra #navaratri #mantra #enchanting #suktam